________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽधिकारः
अथ श्रेष्ठी विशिष्टात्मा श्रुत्वा स्वभवविस्तरम् । वैराग्यं सुतरां प्राप्यानुप्रेक्षा चिन्तनोद्यतः ||१|| संसारे भङ्गरं सर्वं धनं धान्यादिकं किल । संपदा सर्वदा सर्वा चञ्चला चपला यथा ॥२॥ पुत्रमित्रकलत्रादिबान्धवाः सज्जना जनाः । सर्वेऽपि विषयाः कष्टं क्षयं यान्ति क्षणार्धतः ||३|| रूपसौभाग्य सौन्दर्ययौवनं वा करे वनम् । हस्त्यश्वरथभृत्योघो मेघनद्यौघवञ्चलः ||४|| शक्रचापसमा लक्ष्मीर्जायते पुण्ययोगतः । तत्क्ष साक्षयं याति न केनापि स्थिरा भवेत् ||५|| चकित्वं वासुदेवत्वं शक्रत्वं धरणेन्द्रता । अशाश्वतमिदं सर्वं का कथा चाल्पजन्तुषु || ६ || सर्वदा पोषितः कायः सर्वो मायामयो यथा । शरन्मेघः प्रयात्याशु वायुना स्वायुषः क्षये ||७|| भोगोपभोगवस्तूनि विनाशीनि समन्ततः । गेहस्वर्णविभूतिर्या कालव हेर्विभूतिवत् ||८|| अन्येऽपि ये पदार्थास्ते दृष्टनष्टाः क्षणार्धतः । अतोऽत्र चिन्तयेद्धीमान्निर्ममत्वं स्वसिद्धये ||९||
इत्यध्रुवानुप्रेक्षा
भवेऽस्मिन् सर्वजन्तूनां शरणं नास्ति किंचन । माता पिता स्वसा भ्राता मित्रं वा मरणक्षणे ॥ १० ॥
For Private And Personal Use Only