________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
–८, १३२ ]
अष्टमोऽधिकारः
रजकस्य यशोमत्या गर्भे पुत्री च वत्सिनी । जाता तत्रार्थिकासङ्गं समासाद्य स्वशक्तितः ॥ १२८|| किंचित्पुण्यं तथोपार्ण्य संजातेयं मनोरमा । रूपलावण्यसंयुक्ता प्रीता ते प्राणवल्लभा ॥१२९|| सतीमतल्लिका नित्यं दानपूजाव्रतोद्यता । जैनधर्मं समाराध्य जन्तुः पूज्यतमो भवेत् ॥१३०॥ इत्यादि भवसंबन्धं गुरोर्विमलवाहनात् । श्रुत्वा सुदर्शनः श्रेष्ठ संतुष्टो मानसे तराम् ॥ १३१ ॥ स जयतु जिनदेवो देवदेवेन्द्रवन्द्यो
भवजलनिधिपोतो यस्य धर्मप्रसादात् । कुगतिगमनमुक्तः प्राणिवर्गो विशुद्धो
भवति सुगतिसङ्गो निर्मलो भव्यमुख्यः || १३२ ||
इति सुदर्शनचरिते पञ्चनमस्कार माहात्म्य प्रदर्शके मुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शन - मनोरमा-मवावलीवर्णनो नामाष्टमोऽधिकारः ।
For Private And Personal Use Only
७९