________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
[८, ११५
यान्ति शीघ्रं समागत्य ताः समानय साम्प्रतम् । श्रुत्वेति वचनं तस्य सुभगोऽपि प्रवेगतः ॥११५।। गङ्गातटं सुधीर्गत्वा महासाहससंयुतः। मन्त्रं तमेव भव्यात्मा समुच्चार्य मनोहरम् ॥११६॥ ददौ झम्पां जले तत्र तीक्ष्णकाष्ठं दुराशयः । मत्स्यबन्धिभिरारब्धं कष्टदं वर्तते पुरा ।।११७।। तस्योपरि पपाताशु स भिन्नो जठरे तदा। काष्ठेन तीक्ष्णभावेन दुर्जनेनेव पापिना ॥११८।। तत्र मन्त्रं स्मरन्नुच्चैनिदानं मानसेऽकरोत् । श्रेष्ठिनोऽस्य सुपुण्यस्य मन्त्रराजप्रसादतः ।।११९।। पुत्रो भवाम्यहं चेति दशप्राणैः परिच्युतः। जातो वृषभदासस्य जिनमत्याः शुभोदरे ॥१०॥ त्वं सुदर्शननामासौ सुपुत्रः कुलदीपकः । चरमाङ्गधरो धीरो जैनधर्मधुरंधरः ॥१२॥ दाता भोक्ता विचारज्ञः श्रावकाचारतत्परः । परमेष्ठिमहामन्त्रप्रभावात् किं न जायते ॥१२२।। शत्रुमिंत्रायते येन सर्पो दामयते तराम् । सुधायते विषं शीघ्रं समुद्रः स्थलतायते ॥ १२३।। वह्निर्जलायते येन मन्त्रराजेन भूतले । किं वय॑ते प्रभावोऽस्य स्वर्गो मोक्षश्च संभवेत् ।।१२।। स प्रत्यक्षं त्वया दृष्टः प्रभावः परमेष्ठिनाम् । महामन्त्रस्य भो भव्य भुवनत्रयगोचरः ॥१२५।। पूर्व या भिल्लराजस्य कुरङ्गी नाम ते प्रिया। सा हित्वा स्वतनु पापात् काशीदेशे स्वकर्मणा ॥१२६।। वाणारसीपुरे जाता महिषी तृणमक्षिका। सा पश्वी च ततो मृत्वा श्यामलाख्यस्य कस्यचित् ॥१२७॥
For Private And Personal Use Only