SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् [८, ९०अस्मादृशाः सवस्त्राद्याः कम्पन्ते शीतवातकैः। दन्तेषु संकटं प्राप्ताः पशवोऽपि सुदुःखिताः ॥१०॥ इत्येवं चिन्तयन् गत्वा गृहं गोपो दयाधीः । काष्ठादिकं समानीय वह्नि प्रज्वाल्य सादरम् ।।२१।। समन्तान्मुनिनाथस्य नातिदूरं न दुःसहम् । उष्णीकृत्य निजौ पाणी तन्मुनेः पाणिपादयोः ।।१२।। पार्वे परिभ्रमन्नुच्चैर्भक्तिभावभरान्वितः। शरीरे मर्दनं कृत्वा स्वास्थ्यं चक्रे प्रमोदतः ।।१३।। एवं रात्रौ महाप्रीत्या सेवां कुर्वन् सुधीः स्थितः । सत्यमासन्नभव्यानां गुरुभक्तौ रतिर्भवेत् ।।१४।। मुनीन्द्रोऽपि सुखं रात्रौ ध्यानं कृत्वा सुनिस्पृहः । सूर्योदये दयासिन्धुर्योगं संहृत्य मानसे ।।२५।। अयमासन्नभव्योऽस्ति मत्वेति प्रमदप्रदम् । सप्ताक्षरं महामन्त्रं दत्वा तस्मै जगाद सः ॥२९॥ अनेन मन्त्रराजेन भो सुधीः शृणु निश्चितम्। सिद्धयन्ति सर्वकार्याणि यान्ति कष्टानि संक्षयम् ।।१७।। सर्वे विद्याधरा देवाश्चक्रवादयो भुवि । इमं मन्त्रं समाराध्य प्रापुः स्वर्गापवर्गकम् ।।८।। त्वया सर्वत्र कार्येषु गमनागमनेषु वा । भोजनादौ सुखे दुःखे समाराध्यो हि मन्त्रराट् ।।६।। णमो अरहंताणं इत्युक्त्वा च मुनिः स्वामी तस्मै परमपावनः । स्वयं तमेव सन्मन्त्रं गदित्वागानभोऽङ्गणे ॥१००।। तन्मन्त्रेण मुनेर्वीक्ष्य नभोगमनमुत्तमम् । मन्त्रे श्रद्धा तरां तस्य तदाभूदु धर्मदायिनी ॥१०१॥ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy