SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -८, ८९] अष्टमोऽधिकारः षोडशप्रमितव्यक्तभावनाभावकोविदम् । प्रोक्तसप्तदशासंयमकैनित्यं विवर्जितम् ॥७७।। अष्टादशासम्परायज्ञातारं करुणार्णवम् । एकोनविंशतिप्रोक्तनाथाध्ययनान्वितम् ।।७८॥ प्रोक्त-विंशति-संख्यानासमाधिस्थानवर्जितम् । एकविंशतिमानोक्तसबलानां विचारकम् ।।७।। द्वाविंशतिमुनिप्रोक्तपरीषहजयक्षमम् । त्रयोविंशतिजैनोक्तश्रुतध्यानपरायणम् ॥८॥ चतुर्विंशतितीर्थेशसारसेवासमन्वितम् । भावनापञ्चविंशत्याराधकं विश्ववन्दितम् ॥८१॥ ज्ञातारं पञ्चविंशत्याः क्रियाणां धर्मसंपदाम् । षड्विंशतिक्षमाणां च वेत्तारं नयकोविदम् ॥८२॥ सप्तविंशत्यनागारगुणयुक्तं गुणालयम् । अष्टाविंशतिविख्यातसारमूलगुणान्वितम् ॥८३॥ एकोनत्रिंशदाप्रोक्तपापसङ्गभयंकरम् । प्रोक्तत्रिंशन्मोहनीयस्थानभेदप्रभेदकम् ॥८४॥ एकत्रिंशत्प्रमाणोक्तकर्मपाकप्रवेदिनम् । द्वात्रिंशद्वीतरागोपदेशेषु कृतनिश्चयम् ।।८५|| त्रयस्त्रिंशत्प्रमात्यासादनानां क्षयकारकम् । चतुस्त्रिंशत्प्रमाणातिशयसंपत्तिदर्शिनम् ॥८॥ ध्यायन्तं परमात्मानं मेरुवन्निश्चलाशयम्। गुणैरित्यादिभिः पूतमन्यैश्चापि विराजितम् ॥८॥ स्वचित्ते चिन्तयामास तदा बालो दयापरः । एतेन तीव्रशीतेन तरवोऽपि महीतले ॥८८॥ केचिच्च प्रलयं यान्ति कथं स्वामी च तिष्ठति । दिगम्बरो गुणाधारो वीतरागोऽतिनिस्पृहः ।।८।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy