________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूर्ख पुत्र से कुलका नाश होता है।
कुपुत्रेण कुलं नष्टं, जन्म नष्टं कुभार्यया ।
कुभोजनेन दिनं नष्टं, पुण्यं नष्टं कुकर्मतः ॥४९१ ॥ धर्म के विना सुख नहीं मीलता । ग्रामो नास्ति कुतः सीमा, धर्मों नास्ति कुतः सुखम् । दानं नास्ति कुतः कीर्तिर्भार्या नास्ति कुतः सुतः ॥४९२।। शास्त्र बुद्धिमानों का जीवन है।
जीवन्ति सुधियः शास्त्रैः, व्यापारैर्वणिजां बजाः।
करैर्विश्वंभराधीशाः, कपटैः कमलेक्षणाः ॥४९३ ॥ शक्ति का उपयोग करना चाहीए । द्वौ हस्तौ द्वौ च पादौ च, दृश्यते मनुजाकृतिः । अहो ! कपीन्द्र ! राजेन्द्र ! गृहं किन्न करिष्यति ।।४९४॥
सूचिमुखे दुराचारे रण्डे पण्डितमानिनि ।
असमर्थो गृहकरण, समर्थो गृहभञ्जने ॥ ४९५ ॥ मन चलायमान कैसे हो।
पुष्पं दृष्ट्वा फलं दृष्ट्वा, दृष्ट्वा नारी सुशोभिताम् ।
एतानि त्रीणि वने दृष्ट्वा, कस्य न चलते मनः ॥४९६॥ कामदेव क्या चीज है।
सतीव्रतेऽग्नौ तृण यामि जीवितम् । स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥ ४६७॥
For Private And Personal Use Only