________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६१) वणिक अवस्था ।
कार्य सपौरूषणापि वणिजा न हि पौरुषम् ।
वणिजो लोकसामान्येऽप्यर्थे साशंकवृत्तयः ॥ ३७२ ॥ जरावस्था ।
पुरुषस्य जरा पंथा अश्वानां मैथुनं जरा ।
अमैथुनं जरा स्त्रीणां, वस्त्राणां वमलं जरा ॥३७३ ॥ कार्य विना दूसरेके घर जाना निन्दनीय है।
विना कार्येण ये मूढा, गच्छन्ति परमन्दिरम् ।
अवश्यं लघुतां यान्ति, कृष्णपक्षे यथा शशी ॥३७४॥ मेदपाटके मनुष्यकी प्रशंसा ।
निर्विवेका मरुस्थल्यां, निर्लजा गुर्जरे जनाः।
निर्दया मालवे प्रोक्ता, मेदपाटे त्रयो न हि ॥ ३७५ ॥ यह छ शास्त्रवर्जित है।
अलसो मन्दबुद्धिश्च, सुखितो व्याधितस्तथा ।
निद्रालुः कामलुब्धश्व, षडेते शास्त्रवर्जिताः ॥ ३७६ ॥ समानता बुरी है।
राजा राजानमालोक्य, वैद्यो वैद्य नटो नटम् ।
भिक्षुको भिक्षुकं दृष्ट्वा, श्वानवत् घुघुरायते ॥३७७ ।। कीसके लीये कैसा धन अच्छा है।
ब्राह्मणानां धनं विद्या, क्षत्रियाणां धनं धनुः । ऋषीणां च धनं सत्यं, योषितां यौवनं धनम् ॥३७८॥
For Private And Personal Use Only