________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४८) विचित्रता कहाँ होती है। किं चित्रं यदि शास्त्रवेदिनिपुणो विप्रो भवेत् पंडितः ?, किं चित्रं यदि नीतिशास्त्रनिपुणो राजा भवेद्धार्मिकः १ । तचित्रं यदि रूपयौवनवती साध्वी भवेत् कामिनी, तचित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात् कचित् २६० भाग्य समयपर फलता है।
नैवाकृतिः फलति नैव कुलं न शीलं, विद्याऽपि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा किल संचितानि,
काले फलन्ति पुरुषस्य यथेह वृक्षाः ॥ २६१ ॥ धनान्ध क्या नहीं करता है। यद् दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पति गजघटासंघट्टदुःसंचरं,
सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥२९२॥ जिनस्तुति
सर्वज्ञमीश्वरमनन्तमसङ्गमय्यं, सार्वीयमस्मरमनीशमनीहमिद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि ॥२९३॥
For Private And Personal Use Only