________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३५ ) कर्म ही सब कुछ है।
वैद्या वदन्ति कफपित्तमरुद्विकारं, ज्योतिर्विदो ग्रहगणादिनिमित्तदोषं । भूतोपसर्गमथ मंत्रविदो वदन्ति,
कर्मेति शुद्धमतयो यतयो वदंति ॥२०२॥ पशुवत् जीवन कीस का है ? । नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनानि पंडितजनव्यायामखिन्नात्मनां । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवविवेकविकलैः भूभारभूतैनरैः ।। २०३ ॥ निःस्पृह को जगत् तृण तुल्य है। तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी, निःस्पृहस्य तृणं जगत् ॥ २०४ ॥ क्षणं तुष्टः क्षणं रुष्टो, नानापूजां च वांछति । कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः ॥ २०५॥ यह पांच जीने पर भी मरे समान है । जीवन्तोऽपि मृताः पंच, व्यासेन परिकीर्तिताः । दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥ २०६॥ अतिलोभ नहीं करना ।
एकं दृष्ट्वा शतं दृष्ट्वा, दृष्ट्वा सप्त शतानि च । - अतिलोमामिभूतस्य, चक्र भ्रमति मस्तके ॥२०७॥
For Private And Personal Use Only