________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८ ) पार्श्वप्रभुस्तुति । कोऽयं नाथ ! जिनो भवेत्तव वशी हूँ हूँ प्रतापी प्रिये !, हूँ हूँ तर्हि विमुश्च कातरमते शौर्यावलेपक्रियां। मोहोऽनेन विनिर्जितः प्रभुरसौ तकिकराः के वयं, इत्येवं रतिकामजन्पविषयः पार्थः प्रभुः पातु नः ॥१६॥ जाति कारण नहीं है।
श्वपाकीगर्भसंभूतः, पाराशरमहामुनिः।
तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥१६१॥ कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः। तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥ १६२ ॥ शशकीगर्भसंभृतः, शुको नाम महामुनिः।। तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥ १६३ ॥ न तेषां ब्राह्मणी माता, संस्कारश्च न विद्यते । तपसा ब्राह्मणो(णा) जात(ता)-स्तस्माजातिरकारणम् ।१६४। शूद्रोऽपि शीलसंपन्नो, गुणवान् ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत् ।। १६५॥ जीव का होम करनेवाले अपने संबंधी का होम क्युं नहीं करते। नाहं स्वर्गफलोपभोगरसिको, नाभ्यर्चितस्त्वं मया, संतुष्टस्तृणभक्षणेन सततं, साधो न युक्तं तव । स्वर्गे यांति यदि त्वया विनिहता, यज्ञे ध्रुवं प्राणिनो, यज्ञ किं न करोषि मातृपितृभिः, पुत्रैस्तथा बांधवैः ॥१६६।।
For Private And Personal Use Only