________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७६ ) यथा गजपतिः श्रान्तश्वायार्थी वृक्षमाश्रितः विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥१२३२।। युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः। दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः॥१२३३ ।।
युधिष्ठिरो यक्ष प्रति ब्रूतेपञ्चमेऽहनि वा षष्ठे शाकं पचति यो गृहम् । अनृणी चाप्रवासी च स वारिचर मोदते ॥१३३४ ।। एकचक्रो रथो यन्ता विकलो विषमा हयाः। आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥१२३५ ।। गुणगौरवमायाति न महत्याऽपि सम्पदा । पूर्णेन्दुर्न तथा वन्यो निष्कलङ्को यथा कृशः ॥१२३६ ॥ प्रभुभिः पूज्यते लोके कलैव न कुलीनता । कलावान् धार्यते मूर्ध्नि सत्सु देवेषु शम्भुना ॥१२३७ ।। अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद् हि सत्यमेव विशिष्यते ॥१२३८ ॥ किं कुलेनोपदिष्टेनं शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥१२३९ ।। प्रद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्व दानं च शीलमेतद् विदुर्बुधाः ॥१२४०॥
१ हे यक्ष । २ . किं कुलस्य कथनेन' इत्यर्थः ।
For Private And Personal Use Only