________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२४ )
मृच्यालनी महिसहंसशुकस्वभावा, मार्जारकाकमशका च जलौकसाम्या | सच्छिद्रकुम्भपरिकर्षशिलोपमानं, श्रोतुर्गुणा भुवि चतुर्दशधा भवन्ति प्राज्ञः प्राप्तसमस्तशास्त्र हृदयः प्रव्यक्तलोकस्थितिः, प्रस्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः । प्रायः प्रश्नसहः प्रभुः परमनोहारी परानिन्दया, ब्रूयाद् धर्मकथां गुणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः ।। ७९५ || चिन्तया नश्यते बुद्धिः, चिंतया नश्यते बलम् । चिन्तया नश्यते ज्ञानं, व्याधिर्भवति चिन्तया ॥ ७९६ ॥ अथीनामर्जने दुःखं, अर्जितानां च रक्षणे |
।। ७९९ ॥
आये दुःखं व्यये दुःखं, धिगर्थो दुःखभाजनम् ॥ ७९७ ॥ विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, चतुर्थं नास्ति कारणम् ॥ ७९८ ॥ नाणाविहाई दुक्खाई, अनुहोति पुणो पुणो । संसारचक्कवालंमि, मच्चुवा हिजराकुले उच्चावयाणि गच्छन्ता, गब्भमेस्संति तसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥ ८०० ॥ स्रष्टा यन्न सृजेत् सृष्टौ हरो ध्यानेन दृष्टवान् । नोदरे वैष्णवे चास्ति, तत् कुर्व्वन्ति स्त्रियोऽदयाः || ८०१ || द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष, नामापि च विनश्यति
॥ ८०२ ॥
For Private And Personal Use Only
।। ७९४ ।।