________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११६) नमस्तुभ्यं भवाम्भोधि-यानपात्राय तायिने। त्वत्तः शिवसुखानंद, प्रार्थये नतवत्सल ! ७५१ ॥ तव प्रेष्योऽस्मि नाथाहं, त्वत्तो नाथामि नाथताम् । जगच्छरण्य ! मां रक्ष, प्रसीद परमेश्वर ! ॥ ७५२ ।। क्वाहं बुद्धिधनहीनः, क्व च त्वं गुणसागरः।
तथापि त्वां स्तवीम्येष, त्वद्भक्तिमुखरीकृतः ॥ ७॥३॥ त्वया हतास्तपोऽस्त्रेण, सर्वथान्येन दुर्जयाः। रागाद्या रिपवः स्वामि-नात्मनः स्वार्थघातकाः ॥७५४॥ रागाथै रिपुभिर्देवा भाषा अन्यैर्विडंबिताः, पश्यति ते बहिः शत्रून् विहायातनिकेतिन ॥ ७५५ ॥ अनन्तज्ञानमाहात्म्यवारिधे ! चतुरप्रभो!। जगत्प्रदीप ! भगवन् ! नाभेय ! भवते नमः ॥७५६॥ अष्टांगानि तथा नाथ ! भवान् योगस्य निर्ममे । यथा तानि प्रवर्तन्ते, कर्माष्टकनिपिष्टये ॥७५७ ॥ शत्रुजयशिरोरत्नं, श्रीनाभिकुलभास्करम् । . स्वर्गापवर्गव्यापारं, निदानं त्वां विभो स्तुमः ।। ६५८ ॥ रत्नेन काश्चनमिव, तेजसेव नभोमणिः । अलंकृतं त्वया नाथ तीर्थ शत्रुजयं ह्यदः ॥ ७५६ ॥ नाभ्यर्थये स्वर्गसुखं, न मोक्षं न नरश्रियम् ।। सदा त्वत्पादपमानि, वसन्तु मम मानसे ॥७६० ॥
For Private And Personal Use Only