________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११७) पिता कहता है।
परान्नं प्राप्य दुर्बुद्धे !, मा प्राणेषु दयां कुरु ।
परानं दुर्लभं मन्ये, प्राणा जन्मनि जन्मनि ।।७३८॥ पूजारी शब्दकी व्युत्पत्ति ।
पूर्वजन्मनि पूतत्वा-जारत्वादिह जन्मनि ।
श्ररित्वाद्देवपूजायां, पूजारीत्यभिधीयते ॥७३९ ।। पुरोहित शब्दकी व्युत्पत्ति ।
पुरीषस्य च रोषस्य, हिंसायास्तस्करस्य च ।
आद्याक्षराणि संगृद्य, वेधाश्चक्रे पुरोहितम् ॥ ७४० ॥ मिनु और राजाकी साम्यता ।
पृथुकार्तस्वरपात्रं, भूषितनिःशेषपरिजनं देव ! ।
विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम्।।७४१॥ धनपाल कविका राजाके प्रति कथन ।
अहो! खल भुजंगस्य, विचित्रोऽयं वधक्रमः ।
अन्यस्य दशति श्रोत्र-मन्यः प्राणैर्वियुज्यते ॥ ७४२॥ स्वभावकी अतिरेकता। न धर्मशास्त्रं पठतीति कारणं,
न चापि वेदाध्ययनं दुरात्मनः स्वभाव एवात्र तथातिरिच्यते,
यथा प्रकृत्या मधुरं गवां पयः ॥ ७४३॥
For Private And Personal Use Only