________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वाध्यायादि नहीं करनेवाला जगत् में पापी कहा जाता है । आवश्यक-ध्यान-तपोविधान-स्वाध्यायशून्यानि
दिनानि यस्य । प्रयांति तारुण्यहता स्वमातुर्जातेन पापेन किमत्र तेन ७०१ यः सर्वमृलोत्तरसद्गुणादि, प्रध्वंसपापेन न निंदति स्वं ।। निलीननीलीप्रचयांशुकश्रीः, कथं स शुध्येदपिवर्षलक्षः।७०२।
आत्मायुनरके धनं चरपतौ, प्राणास्तुलायां कुलं, वाच्यत्वे हृदि दीनता त्रिभुवने, तेनायशः स्थापितम् । येनेदं बहुदुःखदायि सुहृदा, हास्यं खलानां कृतं, शोच्यं साधुजनस्य निंदितपरस्त्रीसंगसेवासुखम् ॥७०३॥ सत्य का महिमा । सत्येनाग्निर्भवेच्छीतो, गाधं दत्तऽम्बु सत्यतः । नासिश्छिनत्ति सत्येन, सत्याद्रज्जूयते फणी॥ ७०४ ॥ दसण-वय-सामाइय-पोसह-पडिमा-सचित्त-आरंभ। पेसं-उद्दिट वज्जरा समणभूए अ॥ ।। ७०५॥ विजयापत्रमादाय, श्वेतसर्षपसंयुतम् । अनेन लेपयेद्देह, मोहनं सर्वतो जगत् ॥७०६॥ गृहीत्वा तुलसीपत्रं, छायाशुष्कं तु कारयेत् । अष्टगंधसमायुक्तं विजयावीजसंयुतम् ॥ ॥७०७॥ कपिलादुग्वसाद्धे, वटकाकंटप्रमाणतः । भक्षित्वा प्रातरुत्थाय, मोहनं सर्वतो जगत् ॥७०८॥
For Private And Personal Use Only