SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधनीटोकाकर्तुः संक्षिप्तचरितम् एते तावद् राज्ञी( "राणी" )त्युपनामक-नृसिंहाग्निचिद्यज्वनां पुत्ररत्नम् । एतन्नाम वेङ्कटाचलपति-महाग्निचिद् इति । जन्मभूमिस्तु आन्ध्रप्रदेशीय-पूर्वगोदावरीमण्डलस्थ-कोत्तपेट-तालूकान्तर्गत-वाडपालेम इति नाम्ना प्रसिद्धो ग्रामः । जन्मकाल: क्रोस्तु-सं० १८९० सेप्टेम्बर-मासे ११ दिवसो गुरुवासरः [एतत्तुल्ये विकृतिवत्सरेऽधिकभाद्रपद-कृष्णपक्षद्वादशी] । पाण्डित्यम्-वेदवेदाङ्ग-मन्त्रशास्त्र-ज्योतिःशास्त्र-आयुर्वेदशास्त्र-पारीणाः,मन्त्रशास्त्रीय-पूर्णदीक्षा-दीक्षिताः, श्रौतकर्मसु सर्वपृष्ठ-चयन-बृहस्पतिसवान्तऋतुकर्तारश्च । अपि चैते ग्रन्थकर्तारश्च । एतत्कृतग्रन्थाः-विमर्शामृतम्, हंसकिरणावलिः, वेदान्तप्रासादीयभाष्यमुक्ताफलम् , आयुर्विज्ञानम्, पूर्णध्वजः। किं च, स्वपितृचरणकृतनृसिंहसांख्यदर्शनस्य वेदान्तग्रन्थस्य सभाष्यस्य चक्रवाकीति नाम्नीम् आन्ध्रटीकां चक्रुः । एतदुपाधिः कृष्णामण्डलान्तर्गत-विजयवाडनगरे श्रीवेङ्कटेश्वरायुर्वेदकलाशालायां क्री० सं० १९६२ पर्यन्तम् आयुर्वेदाध्यापकाः। एतदनन्तरं क्री० सं० १९६२ वत्सरे अद्यतनकाले गुण्टूरुमण्डलस्थगुण्टूरुनगरस्थ श्रीशृङ्गेरीश्रीविरूपाक्ष - श्रीपीठाधीश्वर - श्रीसदाशिवानन्द - भारती - महास्वामिभ्यो यत्याश्रमं स्वीकृतवन्तः। [मोक्षकाल: क्री० २।३।८२] । For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy