SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ भावबोधिनीटीकासहिता नवात्मा वामादिप्रभृतिभिरिदं भैरववपुर महादेवी ताभ्यां जनकजननीमज्जगदिदम् ॥४४॥ पाठा०--(१) प्रभृतिकमिदं । (२) ०कुच्छैशववपुः । (३) बैन्दववपुः । कौलादिमते देवः नवव्यूहात्मकः । तथा च उक्तं सौन्दर्यलहाँ "शरीरं त्वं शंभोः' [श्लो० ३४] इत्येतच्छ्लोकव्याख्याने काल-कुल-नाम-ज्ञान-चित्त-नाद-बिन्दु-कला-जीव-इतिनवव्यूहात्मकः देवः इत्युक्तम् । तत्कारणेन स विभुः [देवः] नवात्मा, भैरवनाम्ना (बैन्दवनाम्ना इति पाठान्तरं) प्रसिद्धः । सः एव जगत्स्रष्टा । अथ तेषाम् उपास्या देवी महादेवी 'वामादिनवप्रकारप्रकृतिभिः भैरववपुः भयजनकवपुः तादृशदेहवती इति भावः । ताभ्याम् = उक्ताभ्यां, भैरव-भैरवीभ्याम् इदं जगत्, जनकजननीमद् भवति ॥४४॥ अथोक्तकौलमतगन्धोऽपि समयिनां नास्तीति निरूपणम् भवेदेतच्चकद्वितयमतिदूरं समयिनां विसृज्येतद्युग्मं तदनु मणिपूराख्यसदने । त्वया 'सृष्टवारिप्रतिफलितसूर्येन्दुकिरणद्विधा लोके पूजां विदधति भवत्याः समयिनः॥४५॥ पाठा०--(१) सृष्टे वारि० । (२) विभालोके । हे देवि ! लोके, भवत्याः पूजां द्विधा समयिनः विदधति = कुर्वन्ति । कथम् ? तेषां समयिनां एतत्कौलपूजाचक्रद्वयम् अतिदूरं, अतः तद्युग्मं विसृज्य, तदनु, तदूर्ध्वस्थितमणिपूराख्ये चक्रे त्वया, वारि = जले, सृष्टः, प्रतिफलितसूर्येन्दुकिरणैः = सूर्येन्दु१. वामादि =वामा-ज्येष्ठा-रौद्री-अम्बिका-पश्यन्ती-इच्छा-ज्ञान-क्रिया-शान्ता इति नवप्रकृतयः शक्तयः । For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy