SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुभगोदयस्तुति: ३० अथ कौल - वाम - मतनिरूपणम् भवेन्मूलाधारं तदुपरितनं चक्रमपि तद् द्वयं तामिस्राख्यं शिखि किरण संमेलनवशात् । तदेतत्कौलानां प्रतिदिन मनुष्ठेयमुदितं भवत्या वामाख्यं मतमपि परित्याज्यमुभयम् ॥ ४२ ॥ हे देवि ! भवत्याः वामाख्यं = मकारपञ्चकसहितोपासनारूपं, कौलानां मतं च एतद् उभयं न उपास्यं परित्याज्यम् एव । किं तत्कौलमतम् ? उच्यते, मूलाधारचक्रं तदुपरिवर्तमानस्वाधिष्ठानं च एतद्वयं तामिस्रनामधेयम् [ अन्धकारबन्धुरम् ] | एतस्मिन् मणिपूरस्थाग्निकिरणसंमेलनवशात् कौलानां प्रतिदिनम् [ अमायाम् अपि ] उपास्यं भवति इति उदितम् । एतद् एव कौलमतम् ||४२ || 3 अथ कौलपूजाविवरणम् - Acharya Shri Kailassagarsuri Gyanmandir अमोषां कौलानां भगवति ! भवेत्पूजनविधि स्तव स्वाधिष्ठाने तदनु च भवेन्मूलसदने । अतो बाह्या पूजा भवति भगरूपेण च ततो निषिद्धाचारोऽयं निगम विरहोऽनिन्द्य चरिते ॥ ४३॥ हे अनिन्द्यचरिते ! भगवति ! पूर्वोक्तकौलानां [ प्रथमं ] पूजा = विधिः स्वाधिष्ठाने, तदनु = पश्चात् । मूलसदने बाह्या पूजा । अतः परं भगरूपेण [ उपकरणेन ] च अयं निषिद्धाचारः, निगमविरहः = वेदमार्गदूर: [ स्याद् इति शेषः ] ||४३|| अथ कौलदेवतानिरूपणम् नवव्यूहं कौल 'भृतिकमतं तेन स विभुनवात्मा देवोऽयं जगदुदय कृभैरववपुः । For Private And Personal Use Only मूलाधारे च पूजा भवति ।
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy