________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक
॥ ३४ ॥
www.bbatirth.org
श्री | नाभिसुनो जिनसार्वभौ वृ षध्वज त्वन्नतये ममे ष जीवरक्षापर देहि दे भचितं स्वं पदमाशु वी
म,
हा ।
वी
र ॥ १ ॥
व्याख्या - हे श्रीनाभिसूनो, हे जिनसार्वभौम सामान्य केवलिचक्रवर्तिन् वृषध्वज वृषभाङ्क । त्वन्नतये भवन्नमस्काराय मम मे ईहा वाञ्छा वर्तत इति संबन्धः । श्रीनाभिसूनुस्तावदन्योऽपि कोऽपि भविष्यतीति आशंसानिरासार्थ ( जिनसार्वभौमेति पदं ) । जिन सार्वभौमाः सर्वेऽप्यर्हन्तः, अतः प्रथमजिननिर्धारणाय वृषध्वजेति पदं । इति पूर्वाधेनाद्यं जिनं स्तुत्वा परार्धेन पश्चिमजिनस्तवमाह - हे षड्जीवरक्षापर पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणाः षड्जीवास्तेषां रक्षा पालनं तत्परः षड्जीवरक्षापरः तस्य संबोधनं । हे वीर वर्धमान । त्वं आशु शीघ्रं स्वं निजं पदं मोक्षलक्षणं स्थानं देहि वितर । किंविशिष्टं पदं ? देवी भर्त्रर्चितं देव्यो देवाङ्गनास्तासां भर्तारो देवास्तैरचितं पूजितं तैरप्याराधितं सर्वोत्कृष्टत्वादित्यर्थः ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kallissagarsun Gyanmandir
चतुर्विंश.
॥ ३४ ॥