________________
Shri Mahavir Jain Aradhana Kendra
****
www.kobarth.org
अव० - " वनिनवमालिका " गतागतः । हे अवनि पृथ्वि, नवा चासौ मालिका च सा तथा । कालिमा कृष्णता, कस्मिन् ? वननिवहे ॥ ११२ ॥
कीदृक्षः सन्निहपरभवे कीदृशः स्याद्धितैषी ? कीदृक्का स्यादद गदवतामत्र दोषत्रयच्छित् ? | का कीदृक्षा पुरि न भवतीत्याहतुर्वारिभृङ्गौ? कीदृश्यो वा कुवलयदृशः कामिनः कीदृश स्युः ? ॥ ११३ ॥
अव०- “सदयः, मधुरता, विपण्यावली, गौरवपुषः” । सदयः सह दयया वर्तत इति सदयः । इहभवे परभवे च सन् शोभनोऽयो लाभो यस्यासौ तथा । मधुरता माधुर्यं । मधुनि रता मधुसक्ता । मधुरसंबन्धि माधुर्य दोषत्रयापहारि भवतीत्यर्थः । विपण्यावली आपश्च अलिश्च अवली तयोः संबोधनं हे अबली जलमधुकरौ संबोधने द्विवचने तद्रूपं । विपण्या विक्रेयद्रव्यरहिता विपण्यावली हट्टपङ्किः विक्रेयद्रव्यरहिंता न भवतीत्यर्थः । गौरवपुषः गौरं वपुर्यासां ता गौरवपुषः । गौरवं पुष्णन्तीति गौरवपुषः ॥ ११३ ॥
मुदा श्रयति कं ब्रूते, वर्णः कोऽपि सदैव का ? । ध्वान्तेऽन्ययाऽन्वितं वीक्ष्य, प्राहोमा किं हरं रुषा ? ॥ ११४ ॥
अव० - "अंधकारे" चतुर्गतः। अं विष्णुं । हे धकार । ईर्लक्ष्मीः । अन्धकारे तमसि । अन्धको नाम दानवस्तस्यारिर्महेश्वरस्तस्य संबोधनं हे अन्धकारे हे महेश्वर । लोचनरहित । का रे ॥ ११४ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir