________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यूयं किं कुरुत जनाः, खपूज्यमिति शिल्पिसुतखगौ ब्रूतः । स्मरविमुखचित्तजैनः, कथमाशास्ते जनविशेषम् ॥ ४५ ॥
अव०—“संनमाम कारुकुमारवी" गतागतः । कारुकुमारश्च विश्व कारुकुमारवी तयोः संबोधनं हे कारुकुमारवी संनमाम प्रणमामहे । हे वीर मा कुरु काममानसं ॥ ४५ ॥
सुभटोsहं वच्मि रणे रिपुगलनालानि केन किमकार्षम् ? | चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः ? ॥ ४६ ॥
अव०—“असिनादासीः” द्विर्गतजातिः । असिना खड्डेन अदासीनवान् । पक्षे असिनाः अवनाः, काः ? दासीः पिञ् बन्धने ह्यस्तनी सिः ॥ ४६ ॥
भूषा कस्मिन् सति ? स्यात्कुचभुवि मदिरा वक्ति ? कुत्रेष्टिकाः स्युः ?, कस्मिन् योधे जयश्रीर्युधि ? सरति रतिः प्राजने कुत्र नोक्ष्णः ? । कामद्वेषी तथोर्वदति दधि भवेत् कुत्र ? किं वा वियोगे, दीर्घायाः ? कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ॥ ४७ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir