SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्व स्तवः क्ष्मीकान्, तदनु अवमान् अधमांश्च । अव रक्ष । हे मानवमाः मानवेषु मनुष्येषु माश्चन्द्र इव तस्यामन्त्रणं । हे न सदान सखण्डन । हे सदान दानगुणसहित। हे सदान सत् प्रधानं आनं निःश्वासो यस्य स तथा तस्यामन्त्रणं । सदा नित्यम्॥५॥ तरसा तरसाऽतरसात रसा-दयनोदय नोऽदय नोदय नो। कदम कदमंकदमंकदम, विभवाविभवाविभवाविभ वा ॥६॥ अव०-तरसा वेगेन । तरसा बलेन । अतरं दुस्तरं सातं सुखं यस्य सः अतरसातः तत्संबुद्धी। रसात, नः अस्माकंद कदम कुत्सितरोग, नोदय दूरीकुरु । हे अयनोदय ! अयनं मार्गस्तस्य उदयो यस्मात् स तत्संबुद्धौ । पुनः हे अदय नोन विद्यते दया यस्य तादृशो न, सदयेत्यर्थः। किंभूतं कदमं? कं सुखं द्यति खण्डयति यत्तत् कदं । पुनःकिंभूतं ? अंके उत्सङ्गे समीपे दमनं दमो यस्य तत् । पुनः अङ्क कलंक ददाति यत्तत् अंकदं । हे विभो, आ सामस्त्येन, विभव वि, गतसंसार । हे अविभव निद्रव्य । वा पूरणे। अविभ विगता भा कान्तिर्यस्य सः, न विभः अविभः तस्य संबोधनम् ॥६॥ इति पार्श्वजिनेश्वर ते स्तवनं, रचितं खचितं यमकैः सुघनम् । परिरञ्जितदक्षनरप्रकर, कुरुतां शिवसुन्दरसौख्यभरम् ॥७॥ अव०-सुगमम् ॥ ७॥ ॥ इति यमकबद्धश्रीपार्श्वनाथस्तवः ॥ १ दानं खंडं तेन सह वर्तमानः सदानः अर्थात् ज्ञानादिखंडवान् , तादृशो न, संपूर्णज्ञानादियुक्त इत्यर्थः. ॥८५॥ For And Personalise
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy