________________
Shri Mahavir Jain Aradhana Kendra
श्रीफलव ० ॥ ८२ ॥
www.kobatirth.org
व्याजे लश्च दाने प्रकीर्तितः” इति । पुनः कथंभूतं पार्श्व ? शिवांगनायाः पतिं " हि इति निश्चितपादपूरणासूयासु" शिवं सिद्धिस्तद्रूपा याडंगना रमणी तस्याः शिवांगनायाः पतिं भर्तारं निर्वाणवरेण्यरमणीरमण साधारणमिति । पुनः कथंभूतं ? अपतिपतिं न पतिर्विद्यते येषां तेऽपतयो निःस्वामिनस्तेषामपतीनां पतिः स्वामी तमपतिपतिं अनाथनाथं, अत्र बिन्दुच्युतकं ॥ ४ ॥
हस्त्रियामोष्णकरं करंकरं, कल्पावदं सर्वविदं विदं विदम् ।
कैवल्यकारं सुकुलं कुलं कुलं, पार्श्वं भजेऽहं सकलं कलंकलम् ॥ ५ ॥
व्याख्या - पुनः कथंभूतं पार्श्व ? अंहस्त्रियामोष्णकरं अंहः पातकं तद्रूपा या त्रियामा निशा तत्र अर्थात्तस्याः | स्फेटने उष्णकर इव रविरिव यः सोऽहस्त्रियामोष्णकरस्तं पातकजातकदोषापहारसूर्यानुहारमित्यर्थः । पुनः कथंभूतं ? करकरं करः शुण्डादण्डस्तदनुकारौ करौ भुजायामलं यस्य स करकरस्तं करकरं प्रशस्त हस्तिहस्तहस्त द्वैतमित्यर्थः । अत्र बिन्दुच्युतकं । पुनः कथंभूतं ? कल्पावदं कल्पा शुभा गम्भीरसान्द्रभद्रविधायिनी तां वदतीति कल्पावदस्तं कल्पावदं “मा हत मा हत" इति वचनकथनात् कल्पावदः शुभवाणीवदक इति । पुनः कथंभूतं ? सर्वे वेत्ति जानातीति सर्ववित् तं सर्वविदं सकलप्रकटाप्रकटवस्तुनातज्ञातारं सर्वज्ञमित्यर्थः । पुनः कथंभूतं ? विदं विगतं दं कलत्रं स्त्रीपरीग्रहो यस्य यस्माद्वा विदस्तं विगतपरिग्रहपरिग्रहं । यथैकाक्षरनाममालायां - "दं कलत्रं बुधैः प्रोक्तं, छेदे दाने च दातरि” इति ।
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandr
स्तोत्रम्.
॥ ८२ ॥