________________
Shri Mahavir Jain Aradhana Kendra
www.bobatirth.org.
कथंभूतं ? आलमारः आलमनर्थः अर्थादुपद्रवस्तं मारयति निराकरोतीति आलमारः, अत्र रलयोरैक्यं, अनर्थसार्थमथक इति । पुनः कथंभूतं ? आह्रादावलीदं आ समन्तात् ह्रादस्य आनन्दस्यावली माला तां ददातीति आह्लादावलीदस्तं । सकरमित्यत्र बिन्दु च्युतकं । करयोरित्यत्र रलयोरैक्यं । करस्य कान्तेः कला शोभारूपा तया सह वर्तत इति यः स तं सकरकलं । पुनः कथंभूतं ? । करं कलं मनोज्ञं । पुनः कथंभूतं ? श्रेयोऽग्रलक्ष्म्याः श्रेयो मुक्तिस्तद्रूपाऽग्रलक्ष्मीः प्रधानश्रीः तस्याः श्रेयोऽग्रलक्ष्म्याः मुक्तिरूपप्रधानश्रियाः वरं भर्तारं । पुनः कथंभूतं ? वरं बं विमलं नैर्मल्यं अर्था| न्निष्पापत्वं राति ददातीति बरः पुण्यद इत्यर्थः तं बवयोरैक्यं । यथैकाक्षरनाममाला - " बशब्दः स्याद्विमले बिन्दु - विसर्गे च कुवले चेति” । पुनः कथंभूतं ? सकलं कलया ज्ञानकलया सहितो यः स सकलः तं । पुनः कथंभूतं ? कलं कलं कलंको लोकापवादस्तं लुनाति च्छेदयति यः स कलंकलस्तं । यो जिनं जनः स्तौति तस्य लोके लोकापवादो न भवतीत्याशयः इति ॥ १ ॥
यः शर्मदंं प्रष्ठतमस्तमस्तमः - संस्फेटनांशुर्विदरं दरंदरम् ।
विश्वस्य देवैर्महितं हितं हि तं पार्श्व भजेऽहं सकलं कलंकलम् ॥ २ ॥
व्याख्या — हि निश्चितं तं पार्श्वमहं भजे सेवे । तं कमित्याह यः पार्श्वः तमस्तमः संस्फेटनेऽशुर्वर्तते तमः पापमज्ञानं वा तदेव तमोऽन्धकारं तस्य तमस्तमसः सम्यक्प्रकारेण स्फेटनं दूरीकरणं तस्मिन् अंशुरिवांशुः अज्ञानान्ध
For Private And Personal Use Only
Acharya Shri Kaisagarsun Gyanmandir