SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kasagarton Gyarmande | इति उन्नामिनः, अरेदाश्च (ते ) उन्नामिनश्चेति कर्मधारयः। अथवा आयुर्वेदिनोऽपि अरेदोन्नामिन इति विशेषणं । | यथा अरे इति पीडाशब्दं द्यति खण्डयतीति अरेदः, उत्प्राबल्येन नामयति नाशयति रोगानित्युन्नामी (ततः पूर्ववत् कर्मधारयः) तस्मात् अरेदोन्नामिन इति सिद्धं । तथा मया भवान् वीर ईक्षितो दृष्टः अगदङ्कारतुल्य इत्यर्थः । मम मोहाद्याः कर्मरोगा नाशं गमिष्यन्तीति परिमलः॥१०॥ __ अथाशीर्वादद्वारेणोपसंहारमाह एवं कल्याणनिर्वाण-कल्याणिकतपोऽहनि । संस्तुतः पार्थचन्द्रेण, श्रीवीरो दिशतु श्रियम् ॥ ११ ॥ ___ व्याख्या--श्रीवीरः श्रियं दिशतु । किंभूतो वीरः । श्रीपार्श्वचन्द्रेण संस्तुतः । एवममुना प्रकारेणेति ? कस्मिन् कल्याणेत्यादि-कल्याणं मङ्गलमयं यत निर्वाणकल्याणिकंतपोऽहः तस्मिन् दीपालिकादिने इत्यर्थः॥११॥ ॥ इति श्रीपूर्णिमागच्छीयभट्टारकश्रीभावप्रभसूरिविरचिता श्रीमहावीरस्तोत्रटीका ॥ For Price And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy