________________
। श्रीपार्श्वचन्द्रकविकृतम्।
।महावीरस्तवनम्।
(श्रीभावप्रभसूरिकृतया टीकया संवलितम् ) स्तुत्यं सारस्वतं बीजं, बीजं सज्ज्ञानसंपदाम् । नयाम्यहं स्तुतेर्माग, मनोमन्दिर दीपकम् ॥१॥ कविना पार्श्वचन्द्रेण, वीरस्तोत्रमकारि यत् । सारस्वतस्य संज्ञाधि-कारसूत्रपदाङ्कितम् ॥ २॥ श्रीपूर्णिमागणाधीशः, श्रीभावप्रभसूरिराट् । कुर्वे तस्याधुना टीका-माथिशिशुयाचया ॥३॥ तत्राद्यपद्ये कविर्महावीरजिनमभिष्टौति
कल्याणमालामणिसन्निधानं, श्रीगौतमाद्यैर्मुनिभिः प्रधानम् ।
यशोगुणैः संप्रति वर्धमानं, स्तवीमि भक्त्या जिनवर्धमानम् ॥१॥ १ बीजं मूलमंत्रम्. २ पंडितानां ज्ञानीनां बीजं कारणम्.
प्र०११
For
And Pony