________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 123 ] ३. रसभावनिश्चयः
पुलकस्तम्भभावादिः सात्त्विकः परिकीर्तितः । संचारिभावो निवेदधृतिमत्यादिको मतः ॥ ११२ ॥ श्रीरायक्षितिनाथपालितमहादेशे कवीन्द्रस्तुते __योगीन्द्रा जिनतत्त्वबोधमहिताः सम्यक्त्वरत्नाकराः । रागद्वेषविमुक्तशान्तमनसश्चारित्रपूज्याङ्गका
ध्यायन्तः परमात्मतत्त्वममलं श्राम्यन्ति सौख्यास्पदम्॥११३।। रसलक्षणमत्रोक्तं रसभेदोऽपि निश्चितः। स्थायिभावादिसामग्री रसानां कथिता मया ॥ ११४ ॥ इतः परं रसानां तु वर्णस्तदधिदेवता। कार्यकारणभावश्च विरोधोऽप्यविरोधिता ॥ ११५ ॥ निरूप्यते जगत्ख्यात कादम्बाम्बुधिचन्दिर । शृणु राय महीनाथ काव्यगोष्ठिविशारद ॥ ११६ ॥ स्यादिन्दीवरवर्णस्तु रसशृङ्गारनायकः । तस्याधिदेवता लोके वासुदेवः प्रकीर्त्यते ॥ ११७ ॥ सुधाधवलवर्णः स्याद्रसो हास्याभिधानकः । लोकेऽधिदेवता तस्य विघ्नराजो निरूपितः ।।११।। कषायवर्णतां याति करुणाख्यो रसो भुवि । तस्याधिदेवता प्रोक्ता श्राद्धदेवः कवीश्वरैः ॥११९।। जपाकुसुमवद् रक्तवर्णो रौद्रो रसो मतः । तस्याधिदेवता लोके रुद्रनामा निरूप्यते ॥१२०॥ गौरवर्णेन बाभाति लोके वीररसोऽनिशम् । तस्याधिदेवता लोके शतमन्युः प्ररूप्यते ॥१२१॥ भयानकरसोऽप्यत्र धूम्रवर्णः प्रकथ्यते । तस्याधिदेवता लोके महाकालोऽनुमन्यते ॥१२२॥ रसो बीभत्सनामा च नीलजीमूतसंनिभः । तस्याधिदेवता लोके नन्दिनामा निबुध्यताम् ।।१२३॥
For Private and Personal Use Only