________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
२४
शृङ्गारार्णवचन्द्रिका
अद्भुताख्यरसो लोके हेमवर्णेन राजते। तस्याधिदेवता लोके विधाता प्रणिगद्यते ॥ १२४॥ शान्तनामरसो लोके शुद्धस्फटिकवर्णभाक् । तस्याधिदेवता लोके परब्रह्म प्रकाश्यते ॥ १२५ ॥ शृङ्गाराज्जन्म हास्यस्य करुणो रौद्रजन्मभाक् । अद्भुत जायते वीराद् बीभत्साच्च भयानकः ॥ १२६ ॥ इतरस्माद्रसाज्जन्म नास्ति शान्तस्य शान्तता । इतरो वा रसो लोके जायते न कदाचन ॥ १२७॥ शृङ्गारस्य विरोधी हि बीभत्सः कथ्यते बुधैः । भयानक विरोधी तु लोके 'वीररसो भवेत् ॥ १२८ ॥ अद्भुतो रौद्रवैरी तु करुणो हास्यबाधकः । शान्तस्य केनचिन्नास्ति मित्रत्वं वा विरोधिता ॥ १२९ ॥ नानाभावमनोज्ञभावविलसत्तारावली राजिते
नानारम्यरसौधचारुतरसज्ज्योत्स्नावलीभासिते ।
सत्काव्ये गगने नृसिंहनृपते कादम्बवंशाम्बुधे
भो भो धीर भवान् मनोज 'विलसत्कीर्तिश्च ते वर्धतात् ॥१३०॥
इति रसभावनिश्च पनामा तृतीयः परिच्छेदः
१. विवरसो । २. विलसत्कीर्ती च रुद्रायतां ।
[ III. 12J -
For Private and Personal Use Only