SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir - IV. 9 ] नायकभेदनिश्चयो नाम चतुर्थः परिच्छेदः गुण्यभावे गुणो नास्ति यद्वन्नेतुरसंभवे । रसभावा जगत्यत्र संभवन्ति कदापि न ॥१॥ यतस्ततो नायकस्य नायिकायाश्च लक्षणम् । तद्भेदाश्च निरूप्यन्ते तन्निश्चयफलार्थिनाम् ॥२॥ जनानुरागः प्रियवादिभावो वाग्मित्वशौचे विनयः स्मतिश्च । कुलीनतास्थैर्यदृढत्वमाना माधुर्यशौर्ये नवयौवनं च ॥३॥ उत्साहो दक्षता बुद्धिस्त्यागस्तेजः कला मतिः । धर्मशास्त्रार्थकारित्वं प्रज्ञा नेतृगुणा इमे ॥४॥ एतद्गुणविशिष्टोऽयं नायकः कथ्यते बुधैः। स नायकः पुनः प्रोक्तश्चातुर्विध्ययुतो भवेत् ॥५॥ धीरोदात्तस्तथा धीरलालितो धीरशान्तकः । धीरोद्धत इति ख्याताश्चत्वारो नायका भुवि ॥६॥ क्षमासामर्थ्यगाम्भीर्यदयागुणविराजितः । आत्मश्लाघामानशून्यो धीरोदात्तो मतः सताम् ॥७॥ राजसर्वज्ञकल्पोऽयं रायबङ्गमहीपतिः। महासमुद्रदेशीयो भूमिदेश्यो विराजते ॥८॥ भोगे कलायां लोलो यश्चिन्तातीतसुखोदयः । मन्त्र्यपितात्मसिद्धिश्च स्याद्धीरललितो मदुः ॥९॥ श्रीरायबङ्गरमणो निजकामिनीना मालोकनं दृढतरं परिरम्भणं च । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy