________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IV. 10 - वाणीविलासमधरामृतचारुपानं
कुर्वन् महारुचिरसौधतले सदास्ते ॥१०॥ विवेकशौचसौभाग्यसुप्रसन्नत्वभूषितः। विलासरसिको धीरशान्त इत्युच्यते बुधैः ॥११॥ कादम्बनाथ परिपालितरम्यराज्ये
केचिद् विलासरसिकास्सुभगाः प्रसन्नाः । नित्यं विवेकगुणभासुरमूर्तयस्ते
स्वेष्टाङ्गनासु कमनीयतरा रमन्ते ॥१२॥ मायामात्सर्यचण्डत्वचलचित्तसमन्वितः । आत्मस्तुतिपरो मानी धीरोद्धत इतीरितः ॥१३॥ सप्ताम्भोनिधिपानकं कुलगिरिव्रातस्य संचालनं
दिग्दन्तिव्रजकम्पनं गगनतारानीकनिस्फालनम् । एषामात्मविलासनं प्रकटितं तेऽमी वयं दुर्दमा
इत्येवं वदतो रिपूञ्जयति तान् श्रीरायभूमीश्वरः ।।१४॥ चत्वारो नायका एते रसेषु नवसु क्रमात् । अवस्थाभेदतः सर्वे वर्तन्ते गुणशालिनः ॥१५॥ एषां चतुर्णा नेतृणां धीरोदात्तादिभेदिनाम् । शृङ्गाराख्यारसे प्रोक्ता प्रत्येक चतुरात्मता ॥१६॥ अनुकूलः शठो धृष्टो दक्षिणो नायका मताः । शृङ्गाराख्यरसे सद्भिश्चत्वारो गुणराजिताः ॥१७॥ एकस्यां नायिकायां यः सक्तचित्तो न बुध्यते । अन्यस्त्रीसंगमं सोऽत्रानुकूलो नायको मतः ॥१८॥ विचकिलकुसुमानां सौरभे मग्नभृङ्गः
परकुसुमंपरागं याति नैवात्र तद्वत् ।
१. तास्त्रीराय, २. मटूलीं।
For Private and Personal Use Only