________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- IV. 25 ]
४. नायकभेदनिश्चयः
सुरतमधुरकेल्यां नायिकायाः प्रसक्तो
न हि परवनितानां संगमं याति रायः ॥ १९ ॥ एकस्यां रागशून्योऽपि सराग इव भासते । संलापादिविशेषेण यः सोऽपि शठ उच्यते ॥२०॥
कादम्बनाथ वचनं सुदयासमं ते
ज्योत्स्नासमानमवलोकनचेष्टितं च ।
तन्मल्लिकादिवरदानमिदं च 'चित्तं
कार्यं न दृष्टमिति वक्ति वधूः शठं त्वाम् ॥२१॥ दृष्ट्वान्यकामिनीसङ्गचिह्नोऽपि वितथं वदेत् । वैयात्येन स धृष्टः स्यान्नायकः कथितो बुधैः ॥२२॥ नमनवचनदम्भो मास्तु मास्तु त्वदीयः कपटमिदमनेकं दृष्टमत्यन्तदृष्टम् । तव सकलशरीरेऽन्याङ्गनासंगचिह्नं
सर सर वरकान्ता रायबङ्गं ब्रवीति ॥२३॥ एकाङ्गनालोलचित्तः समभावेन वर्तते । अन्याङ्गनासु स प्रोक्तो दक्षिणो नायको बुधैः ॥२४॥
त्रुटितं दुर्बोधं च पद्यस्यास्य चरणद्वयं यथा पादटिप्पण्यां लिखितम् कर्पूराणि वितीर्य चारुरमणीवृन्दाय दूतीजना
श्रीरायो नृपकुञ्जरः प्रहितवान् साहित्य रत्नाकरः ॥२५॥
इदमपि दक्षिणनायक निदर्शनम् -
नीरेजं वरमल्लिकां किसलयं चूतस्य नीलोत्पलं कङ्केलिस्थित पल्लवं निजमहामाहात्म्यसंसूचकम् ।
२७
१. नित्र, २ रौरागापरमादिवर्णविलसन्नामानि समुदर्य कान्ताममहाकस्तूरिरागाक्षर ।
For Private and Personal Use Only