________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[ IV. 26 -
दत्वालीजनपञ्चकस्य हि करे कान्ताजनेभ्यो मुदा श्रीरायो वरदक्षिणः प्रहितवान् शृङ्गारदुग्धाम्बुधिः ||२६|| धीरोदात्तादिनेतॄणां शृङ्गारे षोडशात्मनाम् । उत्तमादिविभेदेन प्रत्येकं त्रिविधात्मता ॥ २७॥ शृङ्गाराख्यरसे नेतृभेदा लोके निरूपिताः । अष्टसंख्योत्तराश्चत्वारिंशत्संख्याः कवीश्वरैः ॥२८॥ एतेषां नायकानां तु सहाया उपनायकाः । विदूषकः पीठमर्दो विटो नागरिको मताः ॥ २९ ॥ नायकस्य' प्रसंगे च नानाहासकरो मतः । विदूषकः सतां 'लोकव्यवहारादिविच्च यः ॥ ३० ॥ नायकोक्तेषु कार्येषु पटुर्नायकसद्गुणात् । किंचिन्न्यूनगुणः प्रोक्तः पीठमर्दो बुधोत्तमैः ॥ ३१ ॥ नायकानां चित्रवृत्तेरानुकूल्यपरो विटः । नानाकलाप्रौढियुक्तो मतो नागरिको बुधैः ॥ ३२ ॥ उलुब्धाधीरोद्धता ये च स्तब्धाः पापपरायणाः । ते पुनर्नायकाभासाः पुरुषाः प्रतिनायकाः ।। ३३ ।। पूर्वोक्तानां नायकानां यौवने तु गुणाष्टकम् । सत्त्वसंजातमित्युक्तमधुना तन्निरूप्यते ॥ ३४ ॥ तेजो विलासो माधुर्य शोभा स्थैर्यं गभीरता । औदार्य ललितं चेति गुणाष्टकमिति स्मृतम् ॥ ३५ ॥ प्राणाभावेऽपि पुरुषो धिक्कारादिपराभवम् । क्षमते जातु नो यत्तत्तेजः प्रोक्तं विशारदैः ।। ३६ ।।
३. लुब्धादिरोद्धता
२८
१. प्रसङ्गेह, ऐ च स्तब्धाः, ४. तेषु नर्नायकाभासाः ।
२. व्यवहारादिविधः,
For Private and Personal Use Only