SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir - III. 100 ] ३. रसभावनिश्चयः दीनानाथजनान् विलोक्य हृदये दुःखाग्निदग्धान् बहून् कारुण्यामृतभासुरः परिलसद्दानेन मीनेन वै । रक्ष रक्षमतीव यांति न हि यस्तृप्ति परां चेतसि श्रीरायक्षितिनायकः स भवने कारुण्यवीरो भवेत् ॥ ९२ ॥ यं दृष्ट्वा प्रलयान्तभैरवमिमं दोर्दण्डचण्डं नृपं २१ वैरिक्ष्मापगणा भयज्वरमिता धावन्ति मच्र्च्छन्ति च । नीरं यान्ति तरु श्रयन्ति तृणकं चुम्बन्ति वल्मीकक चारोहन्ति स रायवङ्गनृपतिः संग्रामवीरो भुवि ।। ९३ ।। भयाख्यस्थायिभावोऽत्र व्यक्तो भावचतुष्टयात् । भयानकरसस्तस्यालम्बभावः प्ररूपितः ॥ ९४ ॥ निर्घातव्याघ्रसर्पारिभल्लकेभहरिव्रजः । उद्दीपनो घनस्तस्य गर्जनादिः प्रकीर्तितः ॥ ९५ ॥ अनुभावोऽत्र वैवर्ण्यस्वेदकम्पादिको मतः । स एव सात्त्विको भावः संचारी त प्रकीर्त्यते ॥ ९६ ॥ संभ्रमत्रासमोहोरुदीनभावादिभेदभाक् । एते चतुविधा भावा योज्याः काव्यविशारदैः ॥ ९७ ॥ युद्धे रायनरेन्द्र हस्तकलितं खङ्गोरुकालोरंग दृष्ट्वा भीतिवशाद्विपक्षधरणीनाथाः प्रकम्पं गताः । धावन्तो गिरिगरास्थितमहाघोरान्धकारं श्रितास्तांस्तत्रापि भयं नयन्ति वनिता दिव्याङ्गसत्कान्तयः ।। ९८ ।। जुगुप्सास्थायिभावोऽयं व्यक्तो बीभत्सनामकः । रसो जुगुप्स्यवैराग्यहेतुजन्मा द्विधा मतः ॥ ९९ ॥ आलम्बनविभावोऽत्र जुगुप्स्योऽर्थो मनः प्रियः । उद्दीपनस्तु दुर्गन्धदुष्टदोषादिको मतः ॥ १०० ॥ १. उद्दोपनः हन । For Private and Personal Use Only '
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy