________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 81] ३. रसभावनिश्चयः श्रीरायक्षितिनायकस्य समरे तां वैजयन्ती परे
दृष्ट्वा भीतिवशात् पतन्ति कतिचिद्धावन्ति मूर्च्छन्ति च। तां दृष्ट्वा स्मयते हसन्ति विहसन्त्यन्ये परे चेतरे
केचिच्चोपहसन्ति चावहसनं कुर्वन्ति हासं परम् ।। ७३ ।। शोकाख्यस्थायिभावो यो व्यक्तो भावचतुष्कतः । करुणाख्यरसः सोऽत्र प्रोच्यते कविपुंगवैः ॥ ७४ ॥ इष्टानिष्टविनाशाप्तिजातत्वात् करुणो द्विधा। नष्टं वानिष्टयुक्तं वा वस्त्वालम्बनमुच्यते ॥ ७५ ।। स्वजनाक्रन्दनं बन्धुदर्शनादि निरूप्यते । उद्दीपनोऽनुभावस्तु निःश्वासरुदितादिकः ॥ ७६ ।। विस्वरत्वाश्रुपातादिः सात्त्विको व्यभिचारिणः । विषादबाध्यदीनत्वमृतिचिन्तादयः स्मृताः ।। ७७ ।। कादम्बक्षितिपेन भीकरमहासंग्रामभूमौ हतं
श्रुत्वा वैरिगणं तदीयवनिताः शोकाब्धिपारं गताः । हारालम्बिमनोज्ञमौक्तिकगणं नीरेजरागवजं
रायक्ष्मापतिकीर्तिविक्रमसमं मुञ्चन्ति दिङ्मण्डले ॥७॥ रायक्ष्मापतिना भयंकरमहायुद्धे विपक्षत्र
जित्वानीय सशृङ्खलं जडमिमं कारागृहे बन्धितम् । श्रुत्वा तद्वनिताः परां शुचमिताः केशावलिं श्यामलां
श्रीरायस्य कृपाणवल्लिसदृशीं मुञ्चन्ति मूर्च्छन्ति च ॥७९॥ क्रोधाख्यस्थायिभावोऽयं व्यक्तो भावचतुष्टयात् । रौद्रः सोऽपि रसो द्वेधा मात्सर्यद्वेषजन्मतः ॥ ८० ॥ आलम्बनविभावोऽस्य मात्सर्यद्वेषगोचरः । उद्दीपनस्तु तद्भाषा तच्चेष्टादिक उच्यते ॥ ८१ ।।
१. हतादिः ।
For Private and Personal Use Only