________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ III. 62 - म्रियते यत्र रमणी रमणो वाप्यलाभतः । द्वयोरन्यतरस्यात्र मरणं तत् प्रकीर्तितम् ।। ६२॥ कादम्बनाथ तव पुण्यफलं किमत्र
तस्याः पुरातनसुकर्मफलं किमत्र । कामस्य बाणनिवहो दशमीमवस्थां
तां नायिका नयति नो खलु रक्ष रक्ष ।। ६३ ॥ ज्ञातभावचतुष्केण नीयते व्यक्तरूपताम् ।। हासाख्यस्थायिभावो यो हास्यनामा रसो मतः ।। ६४ ॥ आलम्बनविभावोऽत्र रसे हास्ये मतो बुधैः । विदूषकजनो निन्द्यपदार्थनिवहोऽथवा ।। ६५ ।। विदूषकस्य भाषा वा तदाकारस्य विक्रिया। उद्दीपनविभावोऽत्र निन्द्यदोषगणोऽथवा ॥ ६६ ।। चक्षुर्विकाशो देहस्य चलनादी 'रसाच्च ये। रसभोक्तृनरे प्रोक्ता अनुभावा विशारदैः ।। ६७ ॥ विस्वरत्वाश्रुवैवर्ण्यस्वेदादिः सात्त्विको मतः । औत्सुक्यगर्हचापल्यश्रमाः संचारिणो मताः ॥ ६८ ॥ उत्तमो मध्यमो लोके जघन्यस्त्रिविधो मतः । हास्यनामरसस्तत्र स्मितं हसितमुत्तमे ॥ ६९ ॥ ततो विहसितं मध्ये तथोपहसितं मतम् । 'अन्त्येऽवहसितं चात्र रसेऽतिहसितं मतम् ।। ७० ॥ विकसितगण्डं त्वीषल्लक्ष्यदन्तं मृदुस्वनम् । शिरःकम्पं साश्रुकम्पं विक्षिप्ताशेषदेहकम् ।। ७१ ।। एतेषां लक्षणं प्रोक्तं यथासंख्यमितः परम् । उदाहरणमेतस्य रसस्य प्रोच्यते मया ।। ७२ ।।
१. रसादये । २. अन्त्येन हसितं । .
For Private and Personal Use Only