SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ III. 45 - बाह्यालिभूमिगतजातितुरङ्गमाग्रा रूढं भवन्तमतिचारु विलोकते स्म ।। ४५ ॥ . रमण्या रमणस्यापि यत्र चिन्ता पुनः पुनः । प्रतिकृत्यादिना तेन सा मनःसक्तिरुच्यते ॥ ४६ ।। कादम्बक्षितिनाथ कामवशगारामं गता कामिनी दृष्ट्वा पल्लवमञ्जरी सरसिजं नीलोत्पलं मल्लिकाम् । भृङ्गों कोमलचारुकीरवचनं सत्कोकिलानां स्वरं त्वांपुष्पास्त्रसमं मुहुर्मुहुरलं संचिन्त्य लीनाभवत् ।। ४७ ॥ मनोरथयुतस्वान्ते कान्तायाः कामुकस्य वा। प्राप्तिसंकल्पनं यत्र स संकल्पो मतः सताम् ।। ४८ ।। कादम्बनाथमदनं निजचित्तगेहे ___कृत्वा मनोजधरणीश्वरराज्यलक्ष्मीः । आलिङ्गनं मधुरचुम्बनमज्रिघातं संकल्प्य भावरतिमेति वियुक्तकान्ता ॥ ४९ ।। यत्र कान्तस्य कान्ताया अलाभे तस्य चिन्तनम् । तस्या वा चिन्तनं नित्यं स जागर इति स्मृतः ।। ५० ॥ कादम्बक्षितिनायकस्य विरहे तच्चिन्तया नायिका . ___ संयुक्ता दरनिद्रयापि रहिता चन्द्रातपैः पीडिता। कीरोक्त्या कलकण्ठमोहनरवैर्भुङ्गीकदम्बस्वनै रुद्यानैः शिखिनां विलासघटनैर्जाति मोमुह्यते ॥ ५१ ॥ पत्युर्वा नायिकाया वा प्राप्त्यभावात्कृशीकृता। यत्र ज्वरेण कामस्य तनुः स्यात्तनुता मता ॥ ५२ ।। आयल्लके नृपतिकुञ्जररायबङ्ग - कामज्वरेण कृशतां मृगलोचनागात् । १. बटनैः। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy