SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir - III. 44 ] ३. रसभावनिश्चयः योज्याः संचारिभावाश्च शृङ्गारेऽत्र विशारदः । ग्लानिनिर्वेदनिद्राव बोधशङ्कामदादयः ||३५|| सामग्रीमवलम्ब्येमां जातः शृङ्गारनामकः । संभोगो विप्रलम्भश्च द्विविधो रस उच्यते ||३६|| कान्ताकामुकयोः सूक्तिविलास स्पर्शनादिभिः । मिथः संबन्धरूपोऽत्र संभोगः कथ्यते बुधैः ॥ ३७ ॥ अस्योदाहरणम् जातीकन्दुक ताडनं सरसहु कारस्वरोल्लासनं काञ्चीभूषणबन्धनं कृतककोपाविद्धकेशग्रहः । भ्रूविक्षेपणवर्जनं कपटरम्याक्रोशनं शासनं १५ श्रीरायक्षितिपस्य मोहनकरं कान्ताकृतं चेष्टितम् ॥ ३८ ॥ प्रच्छन्नो वा प्रकाशो वा संभोगो द्विविधो मतः । प्रकाशो गणिकास्त्रीणामन्यस्त्रीणां परो भवेत् ॥ ३९ ॥ पूर्वानुरागो मानात्मा प्रवासः करुणाभिधः । चतुर्धा विप्रलम्भः स्याद् वक्ष्यते तन्निदर्शनम् ॥ ४० ॥ संभोगविप्रलम्भौ तौ कान्ताकामुकयोरिह । संयुक्तायुक्तयोर्वाच्यो यथासंख्यं बुधोत्तमैः ॥ ४१ ॥ कान्तायाः कामुकस्यापि रत्युत्कर्षेण भाविताः । अवस्था दश वर्तन्ते तासामुद्देशलक्षणे ।। ४२ ।। नयनप्रीतिः सक्तिः मनसः संकल्पजागरी तनुता । विषयद्वेषो लज्जाविनाशनं मोहमूर्च्छने मरणम् ॥ ४३ ॥ रमणी रमणो यत्र रमणी रमणं भृशम् । द्रष्टुमिच्छति सा प्रोक्ता चक्षुः प्रीतिर्दशा बुधैः ॥ ४४ ॥ कादम्बनाथ रमणी रतिनाथवश्या सौधाग्रवर्तिमणिनिर्मितविष्टरस्था । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy