________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ III. 23 - दृश्यत्वाद् रसभावानां नटे काल्पनिको रसः । सामाजिके तात्त्विकस्तु रसो निजरसस्मतेः ।।२३।। भुवने रसिका लोका रसान् स्वाभाविकानलम् । भुञ्जते निजकर्मानुसारेण बहुधा सदा ॥२४॥ रसानामिति सर्वेषां सामग्री गदिता मया । शृङ्गाररससामग्री विशेषेण निरूप्यते ॥२५॥ आलम्बनविभावोऽत्र शृङ्गाराख्यरसे स्मृतः। कान्तायाः कामुको लोके कामुकस्य तु कामिनी ॥२६॥ वसन्तोद्यानकासारशुकध्वनिपिकस्वराः । शिखिताण्डवजीमूतध्वनिहंसविकूजनम् ।।२७।। चक्रवाकरतिक्रीडाचञ्चरीकालिगुञ्जनम् । मलयानिलसंचारश्चन्द्रतापविलासनम् ॥२७।। इन्द्रगोपस्य पतनं चन्दनादिविलेपनम् । उद्दीपनविभावोऽत्र शृङ्गारे ज्ञायतां बुधैः ॥२९॥ अनुभावास्तु शृङ्गारे कामुकस्याङ्गसंभवाः । कामुकीकायजाता वा विकाराः परिकीर्तिताः ॥३०॥ 'अपाङ्गलोकनं प्रीतिकरसूक्तिविलासनम् । भ्रूलताक्षेपणं कर्णपूरोत्पलविवाहनम् ॥३१॥ रशनाबन्धनं वामचरणाघातनं स्मितम् । नीवीविससनं नाभिजघनोरुविमर्शनम् ॥३२॥ आलिङ्गनं कुचद्वन्द्वविमर्दनरतिक्रिये। एतेऽनुभावाः कथ्यन्ते शृङ्गारे कविकुञ्जरैः ॥३३॥ कान्ताकामुकयोरत्र दर्शने स्पर्शनेऽथवा। सात्त्विकाः स्वेदरोमाञ्चवैवर्ण्यस्तम्भनादयः ॥३४॥
१. असांगलोकनं, २. मञ्जरैः ।।
For Private and Personal Use Only