________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
[ III. 1 -
रसमावनिश्चयो नाम
तृतीयः परिच्छेदः निरवद्यवर्णगणयुतमपि काव्यं निर्मलार्थशब्दयुतम् । निर्लवणशाकमिव तन्न रोचते नीरसं सतां मनसे ।। १॥ अतः कारणतोऽस्माभिरुच्यते रसलक्षणम् । पूर्वशास्त्रानुसारेण भावभेदविशेषितम् ॥ २॥ चित्तस्य वृत्तिभेदो यः परिणामापराख्यकः । स्थिरत्वं प्राप्तवान् सोऽयं स्थायिभावो निगद्यते ।। ३॥ . रतिहासशोककोपोत्साहभयाख्यस्तथा जुगुप्साख्यः । विस्मयशमाभिधः सः स्थायिभावो हि नवभेदः ॥ ४॥ विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । बुध्यमानैस्तु सुव्यक्तः स्थायिभावो रसो भवेत् ॥ ५ ॥ एवं लक्षणयुक्तोऽयं रसो नवविधः स्मृतः ।। शृङ्गारो हास्यनामा च करुणाख्योऽपि रौद्रकः ॥ ६ ॥ वीरो भयानको यश्च बीभत्सोऽद्भ त इत्यपि । शान्तनामा च ते सर्वे रसभेदा निरूपिताः ॥ ७ ॥ भावैश्चतुभिः पूर्वोक्तैर्व्यज्यमाना रतिर्यदा। तदा कवीन्द्रैः शृङ्गाररस इत्यभिधीयते ।। ८ ।। एवमन्ये स्थायिभावा भावैर्व्यक्ता रसाः स्मृताः । स्वर्णं वह्नियुतं याति रसभावं यथा भुवि ।। ९ ॥ काव्येषु ते विभावाद्याः श्रूयमाणा रसं नृणाम् । श्रोतृणां पोषयन्त्यत्र रसभावार्थवेदिनाम् ॥ १० ॥
For Private and Personal Use Only