________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- 11.42 ] २. काव्यगतशब्दार्थनिश्चयः
भातीन्दीवरमित्युक्ते कालोऽर्थस्य प्रकाशकः । दिवसे यदि नीरजं रात्रौ चेदुत्पलं स्मृतम् ॥३५।। सप्ताङ्गभासुरो राजेत्यर्थो नृपतिबोधकः । अर्जुनः समरे पार्थज्ञानं प्रकरणादभूत् ॥३६।। नरः कपिध्वज इति लिङ्गात् पार्थोऽवगम्यते । इन्द्रः शचीश इत्यन्यशब्दाद्वासवनिश्चयः ॥३७।। नीलकण्ठो नरीनति शक्तिवर्षर्तुबोधिका । 'अत्रास्ते नृपतिव्रतमौचित्यात् सिंहविष्टरम् ॥३८॥ अब्जोऽब्जं राजतीत्युक्ते चन्द्रोऽम्भोज प्रतीयते । पुनपुंसकलिङ्गाख्यव्यक्तिभ्यां कविकुञ्जरैः ।। ३९ ॥ गगने राजते राजा देशाच्चन्द्रो विनिश्चितः । गानस्वरादिरर्थस्य गमकोऽपि न काव्ययुक् ॥ ४० ॥ आदिशब्देन चेष्टादिर्गृह्यतेऽर्थप्रकाशकः । उदाहरणमेतस्य ज्ञातव्यं बुद्धिशालिभिः ॥ ४१ ।। एवं शब्दगतार्थनिश्चययुतै (मत्कवीन्द्रः कृते
काव्यव्योम्नि तिरस्कृतारिगुणतारालिप्रभे निर्मले। भो भो वीरनृसिंहरायनृपते ते सत्प्रतापो रविः
कुर्वन्वैरिनिकायकैरवगणम्लानि सदा वर्तताम् ।। ४२ ॥ २ति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकीर्तिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिराजवङ्गनरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गारार्णवचन्द्रिकानाम्नि अलंकारसंग्रहे काव्यगत
शब्दार्थनिश्चयो नाम द्वितीयः परिच्छेदः । काव्यगतशब्दार्थनिश्चयो नाम द्वितीयः परिच्छेदः । १. अत्रासे नृपतिज्ञात, २. धीवान् ।
For Private and Personal Use Only