________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [II. 22 - मुख्यबाधे निमित्ते च फले चारोप्यते बुधैः । योऽर्थोऽभेदेन भेदेन स गौणो विदुषां मतः ।।२२।। सिंहो नपतिरित्यत्र गौणोऽभेदेन संमतः । राजा सिंह इव प्रोक्तो भेदो गौणो बुधोत्तमैः ॥२३॥ मुख्याल्लिक्ष्यतो गौणाद्भिन्नो योऽर्थः प्रतीयते । स व्यङ्ग्यो ध्वनिरित्युक्तः कलाशास्त्रविशारदैः ॥२४॥ कौमुदं वर्धयत्यत्र राजेत्युक्ते प्रतीयते। प्रजोपकारिता राज्ञः सा व्यङ्ग्य इति बुध्यताम् ॥२५।। अभिधा लक्षणा गौणी व्यञ्जना च चतुर्विधा । शब्दानां शक्तिरित्युक्ता पुरातनकवीश्वरैः ।।२६।। अभिधाशक्तिमाश्रित्य नानार्थान् व्यञ्जयन्ति ये । शब्दास्ते नियतार्थेषु नियम्यन्ति नियामकैः ।।२७॥ नियमाकरणे काव्येऽनिष्टार्थानां प्रतीतितः । असदर्थप्रसंगाख्यदोषदुष्टा कृतिर्भवेत् ।।२८।। ते के नियामका ध्वमिति प्रश्ने नियामकाः । संयोगादय इत्युक्ता गुणशालिकवीश्वरैः ।।२९।। संयोगविप्रयोगौ विरोधितासाहचर्यकालाश्च । अर्थः प्रकरणं लिङ्ग शब्दान्तरसंनिधिश्च सामर्थ्यम् ॥३०॥ औचित्यव्यक्तिदेशाश्च गदितास्तु स्वरादयः । कविप्रयुक्तशब्दानामर्थभेदप्रकाशकाः ॥३१॥ सचक्रो हरिरित्यत्र चक्रयोगात् प्रतीयते । अचक्रो हरिरित्यत्र तद्वियोगाच्च माधवः ।। ३२।। राजा कमलविरोधीत्युक्ते चन्द्रो विरोधतो ज्ञातः । अर्कः कुमुदविरोधीत्युक्ते तत एव कारणाद् भानुः ॥३३॥ जिष्णुभीमाविति प्रोक्ते साहचर्यात् परस्परम् । पार्थपााग्रजौ ज्ञातौ कवितानिपुणैर्बुधैः ॥३४।।
For Private and Personal Use Only