________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- II. 21 ]
२. काव्यगत शब्दार्थ निश्चयः
साक्षात् संकेतविषयो मुख्योऽर्थः प्रणिगद्यते । जातिः क्रिया गुणो द्रव्यमिति सोऽपि चतुर्विधः ॥ १०॥ अश्व-गो-गज-वृक्षादि-शब्दा जातिप्रकाशकाः । क्रियाभिधायिका याति गच्छतीत्यादयो मताः ।। ११।। शुक्लकृष्ण हरिद्रक्त किर्मीरादिर्गुणो भवेत् । दण्डिकुण्डलि चैत्रादि-द्रव्यमित्यभिधीयते ||१२|| मुख्यार्थे बाधिते मुख्यसंबन्ध्यर्थोऽपि लक्ष्यते । 'अन्यार्थत्वेन यः सोऽयं लक्षणेत्यभिधीयते || १३ || लक्ष्यवाचकशब्दस्य लक्षणाशक्तयस्त्रिधा । जहत्यजहती स्वार्थं जहत्यजहतीति च ॥ १४॥ यत्र स्वार्थं परित्यज्य शब्दोऽन्यत्र प्रवर्तते । तत्संबन्धयुते प्रोक्ता सा जहल्लक्षणा बुधैः ॥१५॥ “कौमुदं वर्धयत्यत्र राजा नीतिविदां वरः । घोषो वसति गङ्गायामित्युदाहरणं मतम् ||१६|| अपरित्यज्य मुख्यार्थं शब्दोऽन्यत्र प्रवर्तते । तत्संबन्धयते यत्र सा जहल्लक्षणेत रा ॥ १७॥ प्रविशन्ति महादुर्गं कुन्ताश्चापानि शक्तयः । खेटखड्गाश्च रक्षार्थमित्युदाहरणं स्मृतम् ||१८| शब्दो जहाति मुख्यार्थं न जहात्यपि यत्र सा । जहत्यजहती प्रोक्ता लक्षणा कविकुञ्जरैः ||१९|| व्रजन्ति शिबिका मार्गे व्रजन्ति च्छत्रिणोऽपि च । व्रजन्त्यान्दोलिकाः प्रोक्तमित्युदाहरणं बुधैः ||२०|| "शिबिका - दोलिका-च्छत्रशब्दः स्वार्थप्रकाशकैः । अन्येषां शिबिकान्दोलच्छत्रित्वमिह लक्ष्यते ॥ २१ ॥
१. किमारु०, २. मुख्यार्थत्वेन ३ कामुदं, ४. शापानि ५. शिबिकां, दोलिकां छत्रीन् ।
For Private and Personal Use Only