________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
[ II. 1
काव्यगतशब्दार्थनिश्चयो नाम
दितीयः परिच्छेदः प्रतिभाशक्तिसंपन्नो व्युत्पत्त्यभ्यासभूषितः । अष्टादशस्थलार्थानां वर्णनानिपुणः कविः ।।१।। अथवा शक्तिनैपुण्यकविशिक्षात्रयान्वितः । रसभावपरिज्ञानगुणाढ्यः कविरुच्यते ॥२॥ त्यज्यते गृह्यते शब्दोऽर्थो वा तावत्पुनः पुनः । येन यावद्रुचिः स्वस्य रौचिकः स कविर्भवेत् ।।३।। शब्दडम्बरमात्रार्थी वाचिकः कविरुच्यते । अर्थवैचित्र्यमात्रार्थी सोऽयमार्थः कविर्भवेत् ॥४॥ शब्दार्थद्वयचित्रार्थी शिल्पिकः कविरुच्यते । शब्दार्थमृदुताकारी मार्दवानुगनादभाक् ॥५।। वाच्यवाचकसंबन्धिगुणदोषविदां वरः । महाकवीनां मार्गज्ञो नानाशास्त्रार्थकोविदः ॥६॥ विवेकीति कविः प्रोक्तो दिव्यालंकारयोजने। तत्परो भूषणार्थीति नाम्ना कविरुदाहृतः ।।७।। इति सप्तविधाः प्रोक्ताः कवयः कविपुङ्गवैः । कविप्रयुक्तवाक्यानां चतुर्धार्थः प्रवर्तते ॥८॥ मुख्योऽर्थो लक्ष्यनामापि गौणाख्यो व्यङ्गयनामकः । महाकवीन्द्रः सत्काव्ये प्रयुक्तोऽर्थश्चतुर्विधः ॥९॥ १. येन यावद्रुचिः स्त्रस्य स कवी रौचिको भवेत् । २. मूर्द्धवानुगनादुभाक् ।
For Private and Personal Use Only