SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ I. 29 - तत् काव्यं त्रिविधं प्रोक्तं पद्यं गद्यं च मिश्रितम् । उक्तादिच्छन्दसा बद्धं पद्यकाव्यं निरूपितम् ॥ २९ ॥ गद्यकाव्यं तु वाक्यानां मूलालंकृतमीरितम् (? समुच्चय इतीरितम्) | गद्यपद्योभयं प्रोक्तं मिश्रकाव्यं बुधोत्तमैः ॥ ३० ॥ उत्तमं मध्यमं प्रोक्तं जघन्यं त्रिविधं पुनः । प्रत्येकमिति तत् काव्यं नवधा संप्रवर्तते ॥ ३१ ॥ उत्तमं ध्वनिभिर्व्यक्तमव्यक्तं मध्यमं मतम् । ध्वन्यर्थशून्यं काव्यं तु जघन्यं परिकीर्तितम् ॥ ३२ ॥ आशीरलंकृतं वस्तुनिर्देशपरिभूषितम् । नमस्कृतिसमेतं वा तत् काव्यमुखमुच्यते ॥ ३३ ॥ एतत्काव्यमुखे वर्णगणशुद्धिः प्रकीर्त्यते । तया कवेर्नायकस्य जाघटीति महाशुभम् ॥ ३४ ॥ तदभावेऽनिष्टफलं कविनायकयोर्भवेत् । तस्माद्वर्णगणानां तु शुद्धिरुक्ता बुधैर्यथा ।। ३५ । अकारादिक्षकारान्ता वर्णास्तेषु शुभावहाः । केचित् केचिदनिष्टाख्यं वितरन्ति फलं नृणाम् ।। ३६ ।। ददात्यवर्णः संप्रीतिमिवर्णो मुदमुद्वहेत् । कुर्यादुवर्णो द्रविणं ततः स्वरचतुष्टयम् ।। ३७ ।। अपख्यातिफलं 'दद्यादेचः सुखफलावहाः । ङविन्दुविसर्गास्तु पदादौ संभवन्ति नो ॥ ३८ ॥ कखगघाश्च लक्ष्मी ते वितरन्ति फलोत्तमाम् । दत्ते चकारोऽपख्याति छकारः प्रीतिसौख्यदः ।। ३९ ।। मित्रलाभं जकारोऽयं विधत्ते भीभृतिद्वयम् । झः करोति टठौ खेददुःखे द्वे कुरुतः क्रमात् ॥ ४० ॥ १. द्यादेव, २ विदत्ते भिमृत्त । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy