________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- X. 193] १०. दोषगुणनिर्णयः
इतरेषां रसानां च भावानामपि गम्यताम् ।। आभासत्वं महाकाव्यरसभावविचक्षणैः ॥१८६।। रसे भावे प्रतीते च तद्वाचकपदग्रहः । स्वशब्दग्रहणं सद्भिर्रसदोषः प्रकीर्त्यते ॥१८७।। इमां मदनमञ्जूषां रूपसौन्दर्यशोभिनीम्।
शृङ्गाररससंपृक्तां पश्य पश्य युवेश्वर ।।१८८।। रसे सुप्रतीतेऽपि शृङ्गाररसपदग्रहणं दुष्टम्। .
मुग्धा सलज्जा सभया सस्वेदा विमुखा रतेः । निजेशालिङ्गिता केलिसदनं प्रवर्तते ॥१८९।। मुग्धाया यौवतारम्भानिजेशालिङ्गने लज्जादीनां स्वयमेव संभवाल्लज्जादिपदैर्व्यभिचारिभावानां ग्रहणं दुष्टम् ।
वामपादप्रहारेण कामिन्या हस्तताडनात् । .
नायकस्य रतौ चित्ते कोऽप्युत्साहः प्रवर्तते । १९०५ : उत्साहस्य स्थायिभावस्य प्रतीतस्य स्वशब्देन ग्रहणं दुष्टम् ।
न रज्यति विमोहेन महीं लिखति कामिनी ।
रोदनं च विधत्तेऽसौ किं कर्तव्यं मया सखे ॥१९१।। विप्रलम्भे रसे रोदनाद्यनुभावानां कल्पना कष्टकल्पना । करुणरसेऽपि संभवात्। . . . ... . .
अहो तन्वि विलोकस्व मां त्वत्पादशरण्यकम् ।
यौवनादिरनित्योऽत्र ततो भोग्यं महासुखम् ॥१९॥ शान्तरसे यौवनादेरनित्यत्वकथनम भावः शृङ्गाररसे तस्यानुभावस्य प्रतिकूलस्य ग्रहणं प्रतिकूलग्रहः कथ्यते । ...
रसदोषप्रपञ्चानां काव्येष्वेव निदर्शनम् । अतस्तत्रव दृष्टान्ता ज्ञेया रसविशारदैः ॥१९३।।
For Private and Personal Use Only