________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
शृङ्गारार्णवचन्द्रिका [x. 176 - इत्यादीनां सतामेव ज्ञेयं काव्ये समर्थनम् । कविताप्रौढिविज्ञानशालिभिः कविकुञ्जरैः ।।१७६।। रसाभासोऽपि भावानामाभासः परिकीर्त्यते। स्वशब्दग्रहणं कष्टकल्पनं च निरूपितम् ॥१७७॥ 'अव्यक्तिरनुभावस्य विभावस्य च कीर्तिता। प्रतिकूलविभावादिग्रहणं दीप्तता मुहुः ॥१७८।। अकाण्डे प्रथनं च्छेदोऽप्यङ्गस्याप्यतिविस्तृतिः । अङ्गिनोऽननुसंधानं प्रकृतीनां विपर्ययः ॥१७९।। अनङ्गस्याभिधानं च रसदोषाः प्रकीर्तिताः । एतेषां रसदोषाणां लक्ष्यलक्षणमुच्यते ॥१८०।। अनौचित्यं रसस्य स्याद् रसाभासो द्विधा स्मृतः । अनेकविषयोऽप्येकविषयोऽनुचितोऽपि च ॥१८१।। रूपातिशयसंपन्ना काचिन्नारी विलोकते ।
चैत्रं सुरूपमप्यन्यं मैत्रं श्रीदत्तनामकम् ॥१८२।। अत्र रसस्य नानापुरुषविषयत्वाद्रसाभासः ।
माता मे पितरं दृष्ट्वा मोहोल्लासेन चुम्बनम् ।
कृत्वा कामसुखाम्भोधौ निमज्जति कलान्विता ॥१८३।। अत्र मातापितृविषयस्य रसस्यानुचितत्वाद् रसाभासः ।।
भावानौचित्यमत्रोक्तो रसाभासो विशारदः । भावाभासाभिधानोऽसौ रसाभासोऽनुमन्यताम् ॥१८४।। इयं रतिसमा नारी त्रैलोक्येऽप्यतिदुर्लभा ।
अस्याः स्वीकरणोपायं करिष्यामि कदाचन ॥१८५।। स्वस्मिन्निच्छारहिताया इतरनार्याश्चिन्तनमनौचित्यनिन्दितम् ।
१. अव्याप्ति २. आकाशे।
For Private and Personal Use Only