________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 144 ] १०. दोषगुणनिर्णयः अत्र पुष्पविशेषतो नाम मदनस्य नास्ति ।
विध्यनुवादौ कथितौ व्यत्ययरूपेण यत्र वर्तते । विध्यनुवादविवृत्तः स उच्यते बुद्धिशालिविबुधजनः ॥१३७॥ गतो यः पुरुषो मोक्षं स धर्म चरति ध्रुवम् ।
अत्र विध्यनुवादौ तौ व्यत्ययेन निरूपितौ ॥१३८॥ वक्तुमिष्टोऽर्थो विधिस्तस्य पुनः कथनमनुवादः । तयोर्व्यत्ययकथनं विध्यनुवादविवृत्तः । यो धर्म चरति स्म इति विधिः स मोक्षं गत इत्यनुवाद इति व्यत्ययः ।
अर्थो यत्र त्यक्तस्तस्यादानं मुहुः कृतं सोऽपि । त्यक्तपुनःस्वीकृत इति निगद्यते बुद्धिशालिविबुधेन ॥१३९।। विरक्तो याति पत्नी यां मन्यते यः तृणाय सः ।
विषयार्थसुखाम्भोधौ निमज्जति रसोदयात् ॥१४०॥ अत्र विरक्त इत्यादिना परिग्रहं त्यक्त्वा विषयसुखाम्भोब्धौ मज्जतीति वाक्येन पुनराधत्ते ।
यत्रोत्कृष्ठेन कथनं निकृष्टस्य समं स च। भिन्नः सहचरैरुक्तस्तस्य लक्ष्यं प्रकाश्यते ॥१४॥ आरामे तरवो भान्ति काका अपि चकासति ।
कोकिला राजकीराश्च राजहंसा मधुव्रताः ॥१४२॥ अत्र उत्कृष्टेभ्यस्तरुकोकिलादिभ्यः काका भिन्ना इति सहचरभिन्नः ।
पदवाक्यार्थदोषास्ते गुणीभावं क्वचित् क्वचित् । .. प्रयान्ति तेषां दृष्टान्तः कथ्यतेऽस्माभिरीदृशः ॥१४३॥ घटते ढौकते प्साति पठति श्लाघतेऽटति। . एधते ध्वनति स्नाति भूपतिभूषियत्यलम् ॥१४४॥ १. द्रोति ।
For Private and Personal Use Only