________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [X. 145 - उदाहरणकाव्ये वाक्यमेतादृशं विद्यमानं श्रुतिकट्वपि न दुष्टमिति ज्ञेयम् ।
द्वयर्थव्यर्थंकाक्षरप्रहेलिकाद्वयक्षरादिकाद्येषु । असमर्थक्लिष्टाद्या दोषा उक्ता गुणा मताः सद्भिः ॥१४५॥ विना सर्व मया दृष्टं सर्वज्ञो नियते ततः (?) ।
सर्वज्ञेनापि पीडयेत परमं सुखमद्भुतम् ॥१४६॥ अत्र प्रहेलिकायामत्यन्तव्यवधानेन ज्ञायमानोऽप्यर्थः । कष्ट इति दोषोऽपि गुणो ज्ञेयः ।
कपिध्वजादपेतोऽयं भुवने पतितो नरः ।
क्षितौ स्थितोऽपि देहं स्वं विहाय लघुतो गतः ॥१४७॥ इयमपि प्रहेलिका। कपिध्वजशब्दो नेयार्थोऽपि न दुष्यति भुवनक्षितिशब्दावसमर्थावपि स्वार्थे दुष्टौ न भवतः। अन्यदप्युदाहरणमभ्यूह्यम् । 'बल्यरिः कल्यरिः पातु गुर्वङ्गो वै नपोऽपि च।
. अनड्वानिव शक्तो हि खलतीति युतस्तुवः ॥१४८।। छान्दसभाषिते च वै. शब्दादिनिरर्थकोऽपि न दुष्यति । बल्यरिः कल्यरिः गुर्वङ्ग इति संधिदूषणमपि न।
.. चटकारोहणं स्त्रीणां तुरङ्गमविघट्टनम् ।। . .मर्कटालिङ्गनं चित्तमोहसंमददायकम् ॥१४९॥ अत्र लज्जाकरमश्लीलमपि कामशास्त्रे (न) दूषितं लक्षणशास्त्रत्वात् ।
मूत्रस्थानं भगो गुह्यं पुरीषस्थानमुच्यते । स्त्रीणां तत्र नरो ज्ञानी को विधत्ते मनोमुदम् ॥१५०॥
१. In an identical context Alamkāra-saigraha (VI 82. 83) reads: बल्यरि-क्रत्वरी etc.
For Private and Personal Use Only