________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
शृङ्गारार्णवचन्द्रिका [x. 127 - उक्तार्थयोर्द्वयोर्यत्र पूर्वापरविरोधनम् । स स्यादुक्तविरुद्धोऽयमर्थस्तस्य निदर्शनम् ॥१२७॥ चन्द्रोऽयं ज्योत्स्नया लोकनेत्रानन्दं करोत्यलम् ।
अन्धकारोऽप्ययं सर्वं व्याप्नोति भुवनत्रयम् ॥१२८॥ अत्र युगपच्चन्द्रोदयतिमिरव्याप्तिकथनं पूर्वापरविरुद्धम् ।
अर्थस्यानुचितस्यैव नियमो योऽपि कथ्यते । उक्तः सनियमः सोऽपि कवितागुणशालिभिः ॥१२९॥ अहो रमण पश्य त्वं तामेव सुरमञ्जरीम् ।
मां वा शरण्यरहितों त्वत्सदायत्तजीविकाम् ॥१३०॥ अत्र तामेवेति सुरमञ्जरीदर्शने नियमो न युक्तः मां वेति पक्षान्तरस्य स्वीकारात् ।
वाच्यस्य नियमस्यात्र यस्त्यागः स च कथ्यते । बुधैरनियमस्तस्य व्यक्तिर्दृष्टान्ततो भवेत् ॥१३१॥ समस्तलोकसंव्याप्तगाढान्धतमसं परम् ।
एकेन भानुना सर्वं निरस्तं प्रतिबन्धकम् ॥१३२॥ अत्र एकेनैवेति नियमस्य वक्तव्यस्य त्यागादनियमः ।
वक्तुं योग्ये विशेषेऽस्मिन् सामान्यकथनं बुधैः । विशेषपरिवृत्तोऽयं कथ्यते काव्यकोविदः ॥१३३।। दानेन तर्पिताशेषलोकोऽयं पुरुषोत्तमः ।
समस्तभुवनस्तुत्यो कलौ वृक्षायते सदा ॥१३४॥ अत्र कल्पवृक्षायते इति वृक्षविशेषे वक्तव्ये वृक्षायते इति वृक्षसामान्यकथनम् । विशेषपरिवृत्तः विशेषव्यत्यय इत्यर्थः ।
सामान्ये यत्र वक्तव्ये विशेषः परिकीर्त्यते । सामान्यव्यत्ययः सोऽयं कथ्यते कविपुङ्गवः ॥१३५॥ कान्तानीरेजबाणेन पीड्यते विरहोदये । पुष्पसामान्यतो नाम स्मरस्य न विशेषतः ॥१३६॥
For Private and Personal Use Only