SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ - X. 126 ] १०. दोषगुणनिर्णयः एकार्थः कथ्यते द्विश्चेत् पुनरुक्तो भवेदसौ । दृष्टान्तकथनेनास्य रूपव्यक्तिर्भविष्यति ॥११७॥ सति चन्द्रे महाज्योत्स्ने मत्संतापो निवर्तते । सुधांशौ सति लोकस्य प्रमोदोऽपि प्रजायते ॥११८॥ अत्र चन्द्रे सुधांशावित्यर्थस्य पौनरुक्त्यम् ।। मुख्यार्थादन्य एवार्थोऽश्लीलो लज्जाकरो बुधैः । कथ्यते तस्य रूपाभिव्यक्तिदंष्टान्तदर्शनात् ॥११९॥ कान्ता भगवती या भवती सा जगदुत्तमा । गौणः प्रतीयते कश्चिदर्थो लज्जाकरोऽत्र हि ॥१२०॥ उक्तेन येन बाह्यार्थोऽपेक्ष्यते सोऽर्थ उच्यते । साकाङ्क्ष इति विद्वद्भिरस्योदाहरणं यथा ॥१२१॥ बुभुक्षितोऽहं त्वं दाता दयालुर्धनवानपि । मद्भोजनं कारय त्वमिति बाह्यार्थकाङ्क्षणम् ॥१२२॥ जनैरविदितो योऽर्थः स प्रसिद्धिविरोधवान् । उच्यते कविभिस्तस्य दृष्टान्तोऽपि प्रकाश्यते ॥१२३॥ कान्ताकटाक्षवज्रास्त्रप्रहारेण मनोभवः । कामुकाचलसंदोहं चूर्णयामास लीलया ॥१२४॥ अत्र कामस्य वज्रायुधमप्रसिद्धं लौकैरविदितम् । आगमादिमहाशास्त्रबाधितो योऽर्थ उच्यते । विद्याविरुद्धः स प्रोक्तस्तस्य लक्ष्यं प्रकीर्त्यते ॥१२५॥ रात्रौ गृहीत्वा कोदण्डं चर्यां कृत्वा मुनीश्वरः । पर्यटत्यत्र कान्तारे लीलया व्याघ्रभीकरे ॥१२६॥ अत्र मुनेः कोदण्डस्वीकारादिकं शास्त्रविरुद्धम्। १. दानी। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy